"पाणिनि": अवतरणों में अंतर

आधुनिक भाषाशास्त्र
पंक्ति 57:
 
== वार्त्तिकसूची ==
 
१. ऋऌवर्णयोः मिथः सावर्ण्यं वाच्यम्।
 
२. अकच्स्वरौ तु कर्तव्यौ प्रत्यङ्गम् मुक्तसंशयौ ।
 
३. अपुरि इति वक्तव्यम्।
 
४. विभाषाप्रकरणे तीयस्य ङित्सूपसंख्यानम्।
 
५. अन्त्यात् पूर्वो मस्जेरनुषङ्गसंयोगाऽदिलोपार्थम्।
 
६. लपर इति वक्तव्यम्।
 
७. स्वरदीर्घयलोपेषु लोपाजादेशः न स्थानिवत् ।
 
८. क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषु उपसङ्ख्यानम् ।
 
९. पूर्वत्रासिद्धे न स्थानिवत्।
 
१०. तस्य दोषः संयोगादिलोपलत्वणत्वेषु ।
 
११. वर्णाश्रये नास्ति प्रत्ययलक्षणम्।
 
१२. उत्तरपदत्वे चापदादिविधौ।
 
१३. नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे।
 
१४. अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् ।
 
१५. यस्मिन्विधिः तदादौ अल्ग्रहणे।
 
१६. समासप्रत्ययविधौ प्रतिषेधः।
 
१७. उगिद्वर्णग्रहणवर्जम्।
 
१८. सुसर्वार्धदिक्शब्देभ्यो जनपदस्य।
 
१९. ॠतोर्वृद्धिमद्विधाववयवानाम्।
 
२०. पदाङ्गाधिकारे तस्य च तदुत्तरस्य।
 
२१. तन्मध्यपतितस्तद्ग्रहणेन गृह्यते।
 
२२. अनिनस्मिन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति।
 
२३. प्रत्ययग्रहणे चापञ्चम्याः।
==पाणिनि और आधुनिक भाषाशास्त्र==