सदस्य:Dr. sundar narayan jha/प्रयोगपृष्ठ
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः। गुरुः साक्षात्परब्रह्म तस्मै श्रीगुरवे नमः॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम्। तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया। चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥ (स्कन्दपुराणान्तर्गत उत्तरखण्ड, शिवपार्वतीसंवाद, गुरुगीता श्लोक सं०- ३२,३४ एवं ६७
सर्वज्ञानमयो हि सः मनुस्मृति-२/७'
यो यदिच्छति तस्य तत | कठोपनिषद - १/२/१६
यज्ञोपि तस्यै जनतायै कल्पते॥ ऐतरेयब्राह्मणे-१/२/३
आचारहीनं न पुनन्ति वेदाः| देवीभागवते-११/२/१
आचारः परमो धर्मः| मनुस्मृतौ- १/१०८
जनः किलाचारमुचं विगायति|नैषधे-६/२३
गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः| कुर्वन्दुःखप्रतीकारं सुखवन्मन्यते गृही||श्रीमद्भागवते-३/३०/९
सनकं च सनन्दं च सनातनमथात्मभूः| सनत्कुमारं च मुनीन्निष्क्रियानूर्ध्वरेतसः||श्रीमद्भागवते-३/१२/४
इतिहासपुराणानि पञ्चमं वेदमीश्वरः| सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः||श्रीमद्भागवते- ३/१२/३९
आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः| स्थापत्यं चास्रुजद्वेदं क्रमात्पूर्वादिभिर्मुखैः|| श्रीमद्भागवते-३/१२/३८
यस्य देवस्य यद्रूपं यथा भूषणवाहनम्| तद्वदेव हि तच्चक्तिरसुरान्योद्धुमाययौ|| दुर्गाशप्तशती- ८/१४
देवदानवयक्षाणां पिशाचोरगरक्षसाम्| पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत|| वा.रा.युद्धकाण्डे १०७/६५
नैव रात्रिं न दिवसं न मुहूर्तं न च क्षणम् | रामरावणयोर्युद्धं विराममुपगच्छति || वा.रा.युद्धकाण्डे १०७/६६
अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी | कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः || वा. रा. युद्धकाण्डे- ९२/६६
शुध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः| वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति || मनुस्म्रुतौ- ५/८३
काव्येषु कोमलधियो वयमेव नान्ये तर्केषु कर्कशधियो वयमेव नान्ये || इति मैथिलाः
गंगा पापं शशी तापं दैन्यं कल्पतरुस्तथा।
पापं तापं च दैन्यं च घ्नन्ति संतो महायशः।।
श्रीस्कन्दपुराणोक्त प्रतिहारषष्ठी व्रतकथायाम्- विप्र उवाच-
कार्तिके शुक्लपक्षे तु निरामिषपरो भवेत्| पञ्चम्यामेकभोजी स्याद्वाक्यं दुष्टं परित्यजेत् ||२७||
भावदुष्टं न भुञ्जीत दुष्टश्रवणकुन्नरः| भूमिशायी जितक्रोधः शुचिः श्रद्धासमन्वितः ||२८||
षष्ठ्याञ्चैव निराहारः फलपुष्पसमन्वितः| सरित्तटं समासाद्य गन्धदीपैर्मनोहरैः || २९||
धूपैर्णानाविधैर्दिव्यैर्नैवेद्यैर्घृतपाचितैः | गीतवाद्यादिभिश्चैव महोत्सवसमन्वितैः ||३०||
समभ्यर्च्य रविं भक्त्या दद्यादर्घ्यं विवस्वते | रक्तचन्दनसंमिश्रं रक्तपुष्पाक्षतान्वितम् ||३१||
नानाफलसमायुक्तं दिव्यकौशेयसंयुतम् ||३२||
नमोस्तु सूर्याय सहस्रभानवे नमोस्तु वैश्वानरजातवेदसे | त्वमेव चार्घ्यं प्रतिगृह्ण गुह्ह्ण देवाधिदेवाय नमो नमस्ते ||३३||
नमो भगवते तुभ्यं नमस्ते जातवेदसे | दत्तमर्घ्यं मया भानो त्वं गृहाण नमोस्तु ते||३४||
ज्योतिर्मय विभो सूर्य तेजोराशे जगत्पते | अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर||३५||
एहि सूर्य सहस्रांशो तेजूराशे जगत्पते | गृहाणार्घ्यं मया दत्तं संज्ञया सहितप्रभो||३६||
मन्त्रैरेभिः प्रदातव्यं भास्वते दीप्ततेजसे| अर्धप्रदक्षिणां कृत्वा प्रणमेच्च पुनः पुनः ||३७||
गीतवाद्यादिनृत्यैश्च रात्रौ जागरणं चरेत् | पुनः प्राप्तः समभ्यर्च्य दत्वार्घ्यं स्वस्थमानसः ||३८||
सदक्षिणं तथा चान्नं विप्रेभ्यः प्रतिपादयेत् | व्रती च पारणां कुर्यात् प्रसन्नवदनाम्बुजः||३९||
व्रतेनानेन संतुष्टो दुःखं हरति भास्करः | चक्रुस्ते श्रद्धया युक्ताः स्व स्व दुःखोपशान्तये ||४०||
यक्ष्मापस्मारकुष्ठादियुक्तः क्षत्रियनन्दनः | कमनीयः स नारीणां त्रिभिर्वर्षैर्बलान्वितः ||४१||
पुत्रहीनो भवेत्पुत्री जीवत्पुत्रो मृतप्रजः | सुभगा पतिना त्यक्ता पत्युः प्राणसमा भवेत् ||४२||
प्रोषितस्तु पतिर्यस्याः सा भवेद्भर्तृसंयुता | एवं मनोरथैः पूर्णा अभवन् व्रतकारिणः ||४३||
रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगाः
निरालम्बो मार्गश्चरणविकलः सारथिरपि|
रविर्यात्येवान्तं प्रतिदिनमपारस्य नभसः
क्रियासिद्धिः सत्वे भवति महतां नोपकरणे|| भोजप्रबन्धे-१६९तमःश्लोकः
जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते | यह वाक्य शब्दकल्पद्रुम के द्वितीय भाग पृष्ठ ७६७ पर तथा वाचस्पत्यम् के पञ्चम भाग पृष्ठ ३८१३ पर स्मृतिवाक्य के रूप में उद्धृत है |
खोजते खोजते अन्ततोगत्वा यह श्लोक कुछ भिन्न रूप से स्कन्दपुराण में मिला जो इस प्रकार है-
जन्मना जायते शूद्रः संस्काराद् द्विज उच्यते | शापानुग्रहसामर्थ्यं तथा क्रोधः प्रसन्नता || स्कन्दपुराण- षष्ठ खण्ड नागर खण्ड के २३९ वें अध्याय का 31 वां श्लोक है |
Drsnjhalbs (वार्ता) 08:16, 28 सितंबर 2016 (UTC)जय जय श्री सीताराम
गावो विश्वस्य मातरः विष्णुधर्मोत्तरपुराणे 2/42/2
अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः पातञ्जलयोगसूत्रे 3/13 असूत्रस्य व्यासभाष्ये |