आचारः परमो धर्मः। (सदाचारः)


१. प्रस्तावना, २. सदाचारस्योपयोगिता, लाभाः, तत्साधनोपायाः, ३. दृष्टान्ताः, ४. उपसंहारः ।

सताम् आचार सदाचारः इत्युच्यते। सज्जनाः विद्वांसो यथा आचरन्ति तथैव आचरणं सदाचारो भवति। सज्जनाः स्वकीयानि इन्द्रियाणि वशे कृत्वा सर्वः सह शिष्टतापूर्वकं व्यवहारं कुर्वन्ति। ते सत्यं वदन्ति, असत्यभाषणाद् विरमन्ति, मातुः पितुः गुरुजनानां वृद्धानां ज्येष्ठानां च आदरं कुर्वन्ति, तेषाम् आज्ञां पालयन्ति, सत्कर्मणि प्रवृत्ता भवन्ति, असत्कर्मभ्यश्च निवृत्ताः भवन्ति । तद्वत् आचरणेन मनुष्यः सदाचारी धार्मिकः शिष्टो विनीतो बुद्धिमान् च भवति।

सदाचारस्य सत्तयैव संसारे जन उन्नति करोति। देशस्य राष्ट्रस्य समाजस्य जनस्य च उन्नत्यै सदाचारस्य महती आवश्यकता वर्तते। सदाचारेणैव जना ब्रह्मचारिणो भवन्ति। सदाचारेणैव शरीरं परिपुष्टं भवति। सदाचारेण बुद्धिः वर्धते। सदाचारेणैव मनुष्यः परोपकारकरर्ण सत्यभाषणम् अन्यच्च सत्कर्म कर्तुं प्रवृत्तो भवति। सदाचारी न पापानि चिन्तयति, अतः तस्य बुद्धिः निर्मला भवति। निर्मलबुद्धिश्च लोकस्य देशस्य च हितचिन्तने प्रवृत्ती भवति। अतएव पूर्वः महर्षिभिः 'आचारः परमो धर्मः' इत्युक्तम्। संसारे सदाचारस्यैव महत्त्वं दृश्यते। ये सदाचारिणो भवन्ति, त एव सर्वत्र आदरं लभन्ते महाभारतेऽपि अत एवोक्तं यद् मनुष्यैः सदा स्ववृत्तस्य रक्षा कार्या, धनमायाति याति च। यः सदाचारेण होनोऽस्ति स वस्तुतः पतितोऽस्ति, धनहीनो न पतितोऽस्ति।

वृत्तं यत्नेन संरक्षेद्, वित्तमेति च याति च।

अक्षीणो वित्ततः क्षीणो, वृत्ततस्तु हतो हतः ॥ १॥

ब्रह्मचर्यस्य वेदेऽपि महिमा वर्णितोऽस्ति। यद् ब्रहाचर्यस्य सदाचारस्य वा महिम्ना देवा मृत्युमपि स्ववशेऽकुर्वन् ।

ब्रह्मचर्येण तपसा, देवा मृत्युमुपाध्नत ॥ २॥

मनुष्यस्तदा सच्चरित्रो भवति यदा स मातृवत् परदारेषु व्यवहरति, कन्याः बालिकाश्च स्वभगिनीवत् पश्यति। कामवासनां निगृह्य संयत इवाचरति। यो नैवमाचरति स दुश्चरित्रः दुराचार इति कथ्यते।

सदाचारपालनेनैव श्रीरामचन्द्रो मर्यादापुरुषोत्तमोऽभवत्। एतदर्थमेव लक्ष्मणेन शूर्पणखाया नासिका छिन्ना। सदाचाराभावेनैव चतुर्वेदविदपि रावणो राक्षस इति कथ्यते। अतः सर्वैः स्योत्रत्यै सदा सदाचारः पालनीयः ।

Start a discussion about सदस्य:Dixant pandey/प्रयोगपृष्ठ

Start a discussion
सदस्य "Dixant pandey/प्रयोगपृष्ठ" के सदस्य पृष्ठ पर वापस जाएँ