अहिंसा परमो धर्मः

   अहिंसा पञ्चमहाब्रत्तेषु अन्यतमा। संसारे प्रतिष्ठिता सर्वे धर्माः अहिसायाः प्रतिपादनं कुर्वन्ति। अहिंसायाः द्विविधं स्वरूपं बर्तते । यथा स्तुलं सूक्ष्मं च। कस्यापि जन्तुः शरीरपीडा नोत्पादनीयम्, कष्टं च न दातव्यम् इति तस्या स्तुलरूपम्। मनसा वाचा कर्मणा वा कस्यापि हानि न कार्या इति निश्चयस्तस्याः सूक्ष्मं रूपम् ।सर्वमिदं जगत् ईश्वरेण निर्मितम्। अत्र सर्वेपि प्राणिनः ईश्वरस्य एव अंशभूताः सन्ति। तेषां हानिः ये जनयन्ति ते ईश्वरस्य अप्रियाः भवन्ति।अतः एव अहिंसापथः वस्तुतः न कापुरूषाणां कृते अपि तु शौर्येण च औदार्येण च युगपत् समन्वितानामतिविरलनां महात्मनां कृते एव विद्यते। सः एव परमो धर्मः परं तदाचरणम् अतिकष्टम् । तथापि अस्माकं कर्तव्यं भवति अहिंसायाः पालनमिति। अतः अहिंसा परोमो धर्मः।